पूजा विधि महामाहेश्वराचार्यभिनवगुप्त जयन्ती : २ जून २०२०
गुरु स्तुति अगाधसंशयाम्बोधिसमुत्तरणतारिणीम्। वन्दे विचित्रार्थपदांश्चित्रां तां गुरु - भारतीम् अनाद्यायाखिलाद्याय मायिने गतमायिने। अरुपाय सरुपाय शिवाय गुरुवे नम : ॥ अभिनवरूपा शक्तिः तद्गुप्तो यो महेश्वरो देवः। तदुभययामलरूपमभिनवगुप्तं शिवं वन्दे॥ सदाभिनवगुप्तं यत्पुराणं च प्रसिद्धिमत्। हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम्।। प्रसन्नैकचित्तं दयासान्द्रमन्त : प्रकामं हितं श्री शिव प्रेष्ट गोत्रम । शिवा द्वैतसिद्धान्त विश्रान्ति क्षत्रम् स्वतन्त्रं भजे सद्गुरुं रामचन्द्रम् ॥१॥ श्री गुरुगीता नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम्। शिरसा योगपीठस्थं धर्मकामार्थसिद्धये॥१॥ श्रीगुरुं परमानन्दं वन्दाम्यानन्दविग्रहम्। यस्य सन्निधिमात्रेण चिदानन्दायते परम्॥२॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशिलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥३॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन , तस्मै श्रीगुरवे नमः॥४ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरु...

















Comments
Post a Comment